कवि दैवज्ञ दर्पणदैवज्ञराज न्यौपाने

संस्कृत भाषाका रचना

शोकपत्रम्

प्रा.डा. टीकाराम अधिकारी

सुरलोकप्रिय ! श्रीमन् ! दैवज्ञ ! सुहृदुत्तम !
विलसन्तुतमामेताः स्निग्धाः प्रणतयो मम ।।
सुधापानं कल्पवृक्षा दिव्याश्चाप्सरसां गणाः।
प्रभवन्ति सुखं दातुं तुभ्यं श्रीलसदाननाः ।।

यदर्थं खं गतो दूरं ते भोगा अस्थिरा मताः।
अविवेकाग्निना दग्ध इति ते मतिरातुरा ।।
दैवं जानासि दैवज्ञ ! कथं मृत्युमवापितः।
मृत्युर्दैवविरोधीति स एवाऽभिहितः स्वतः ।।

शर्व ! त्वमेव सर्वज्ञो दैवज्ञं न हि विन्दसि ?
तस्य काव्यसुधां पायं पायं लोकोऽत्र नृत्यति ।।
नूनं दिव्यसुधा तुच्छा नित्यकाव्यसुधां विना।
कथं नीतोऽस्ति दैवज्ञो मृत्युनाम्ना त्वयाऽधुना ?

अथवा त्वत्प्रियो विद्वान् त्वया नीतो निजालये।
सर्वं तदीयवृत्तान्तमाख्याहि च मदन्तिके ।।
गुणीति मृदुभाषीति काव्यस्रष्टेति मानवैः।
संस्तुतोऽयं सदा विद्वान् न त्वया रक्षितः शुभैः ।।

प्रभो ! पशुपते ! त्वं हि नेपालभूमिमाश्रितः।
निहन्ताऽसि स्वभक्तानां यन्नीतो मत्सुहृद्वरः ।।
खिद्यन्ति कवयो नित्यं यथा भृङ्गा विना मधु।
तत्काव्याऽमृतपानेन लोकोऽयं भुवि नन्दतु ।।

दैवज्ञे संस्तुते लोकैः कथं हन्ताऽसि तस्य च।
अविवेकीति विद्वद्भिर्विधे ! त्वमसि निन्दितः ।।
कथं त्वमपि दैवज्ञ ! शीघ्रं लोकान्तरं श्रितः ?
सर्वाणि कविवृन्दानि शोकाऽऽर्तानि विधाय च ।।

आसीद् दिष्टं न चाऽज्ञातं त्वया मृत्युः कथं वृतः ?
निपात्य देहनिर्मोकं त्वं किं भगवताऽर्चितः ?
नन्दनाऽऽनन्दनैस्तुष्टः स्वर्गे देवगुरोः पुरः।
काव्यं सृजसि किं विद्वन् ! शोकाऽऽर्तानाञ्च नः स्मर ।।

अद्य शून्यमिवाऽऽभाति तव भोजपुरं परम्
वयं मन्यामहे भूयस्तवैवाऽऽगमनं वरम् ।
सर्वाणि कविवृन्दानि प्रतीक्षाभाञ्जि ते सदा
त्वत्काव्याऽमृतपानेन जीवन्ति कीर्तिसम्पदा ।।

यथा देशदशां दृष्ट्वा चिन्तितो देहमत्यजः।
मृतप्रायाः स्म सततं तां भुक्त्वा वयमत्र च ।।
निषेव्य स्वर्गलोकं तं भोगाऽन्धं हे सुहृद्वर ।
द्रौपदीमिव लज्जाऽऽर्तां जन्मभूमि न विस्मर ।।

शान्तिस्रष्टा प्रेषणीयो नारदोऽथ च तुम्बुरुः।
अथवा त्वमिहाऽऽगच्छ शान्तिसंस्थापनां कुरु ।।
एकां सहमतिं कृत्वा नेपालं भुवि जीवय।
अन्यथा तव देशोऽयं निरालम्बो पतत्यधः ।।

मानसं भावनारूपं तवाऽपि च ममाऽपि च।
कथ्यते च विनाशीति पूर्ववृत्तं सदा स्मर ।।
अथवा त्वप्रिया पूर्वा स्वर्गं गतवती सती ।
दिव्यशक्त्या समाहूय पाल्यसे त्वं प्रियः पतिः ।।

देववाणीं स्वयं ब्रूषे स्वर्गस्थां मधुरामतः।
शोकपत्रं पठित्वेदं शोककष्टं न विस्मर ।।
शान्तिसंवाहकं दूतं देशेऽस्मिन् प्रेषय ध्रुवम्।
प्रजारञ्जनकार्येऽस्मिन् समर्थं मतिसुस्थिरम् ।।

कल्याणकारिणीं शान्तिं प्रजाप्रह्लादिनीं शुभाम्।
तेनैव देवदूतेन स्थापय त्वं निरन्तराम् ।।
दैवस्त्वं तु दैवज्ञ ! सर्वेषां भाग्यविन्मतः।
नेपालवासिनां भाग्यं कदा जागर्ति तद्वद ।।

तव प्रेमाऽभिषिक्तेयं लेखनी मम वर्तते।
त्वत्सन्देशाऽभिलाषेण जागर्तीयं मदन्तिके ।।
शोकपत्रमिदं हृद्यं त्वद्धृद्गम्यं भवेद् ध्रुवम्।
जीवनं सुरलोकस्थं भवदीयं भवेच्छुभम् ।।

न दुःखमनुभूयास्त्वं रम स्वर्गेऽप्यितोऽधिकम्।
इहाऽपि त्वद्यशो भाति शरच्चन्द्रकराऽधिकम् ।।
विभासि कीर्तिदेहेन काव्ये काव्ये सुहृद्वर !
शत्तिंफ लब्ध्वा हरेर्नित्यं भव त्वमजराऽमरः ।।

वाल्मीकिविद्यापीठभवनम्
काष्ठमण्डपः