दैवज्ञं प्रति
हे दैवज्ञ ! भवान् यथा स्मितमुखः संभाषते भाषितम् ।
प्रत्यक्षं न हि केवलं सुमधुरं लेखे कवित्वे वचः ।
गत्वाऽपि त्रिदिवं न विस्मरतु तच्छक्रस्य गोष्ठीषु च
नेपालीकविमण्डलीष्वभिमुखो ब्रूयात् कवित्वं मुहुः ।। १ ।।
वक्तव्या किमु चेच्छृणोतु— मनसा सन्धार्यतां, कर्मणा
कार्यं, तच्च निगद्यतां सुवचसा, ‘नेपालदेशस्थितिः” ।
नेतृत्वे भषका भषन्त्यनुदिनं नैपालके संसदि
तेषां कर्मषु संसदीयचरितं दृष्टं न नैपालकैः ।। २ ।।
किं स्वर्गे सुरसंसदि प्रतिनिधिर्भूत्वापि ते सांसदाः
स्वर्गस्यैव विखण्डनाय मिलिताः किं सन्ति न प्रोच्यताम् ।
भूयान्नः समभीष्ट एव सततं स्वर्गः सदाऽखण्डितः
माऽभूत् खण्डित एक एव भवतादाखण्डलो रक्षतु ।। ३ ।।
एतच्चापि निगद्यतां कवितया गत्वा सुधर्मां त्वया
नेपालस्तु विखण्डितो भवति किं मा भूदिति प्रार्थ्यताम् ।
एते सन्त्यधुना हि सांसदपदे लघ्वायुषो मानवा
नेपालं त्वतिदीर्घमायुषमिमे किं खण्डशः कुर्वते ।। ४ ।।
आसन् खण्डितराज्यनामबहुशो देशा अनेके पुरा
पृथ्वीभूपतिना विजित्य सकलान् नेपालदेशः कृतः ।
मध्ये भारतचीनयोरधिगतो दण्डायमानः सदा
प्राचीं पश्चिमतो गतो हिमगिरेः स्वर्मस्तकस्यान्तिकम् ।। ५ ।।
सन्त्येव त्रिदशालयेऽपि कवयो लक्ष्मीप्रसादादयः
शेषास्ते कुलचन्द्रसिद्धिचरणास्ते बालकृष्णादयः ।
तानाहूय समानिदं वदतु यल्लेखं कवित्वं पुनर्
गीतं वापि विलिख्यतां लघु–गुरु प्रोच्याः सुधर्मां समे ।। ६ ।।
नेपालो न समुज्ज्वलोऽस्त्यविरतं दोषासु सौदामिनी
नायातीह न वर्षणं च गिरिजां—विश्वेश्वरं ब्रूहि तत्।
ब्रूमः किं कति सन्ति दुःखविधयो नायाति पेयं जलं
पाकार्थे न समिन्धनं च मधुरं न व्यञ्जनं लभ्यते ।। ७ ।।
किं स्वर्गे सुरसद्मनि प्रमिलति स्वादिष्टमिष्टं मधु
दध्यन्नं घृतशर्करादिसहितं सव्यञ्जनं पायसम् ।
स्यात् किं तत्र भवेन्न वास्ति कृशरं सर्पिष्टमं स्वर्णिमं
भोत्तंुफ तत्र मिलेन्न वात्र भवता भुत्तंफ यथेष्टं पुरा ।। ८ ।।
किं स्वर्गे सरसानि सन्ति यदि ते खाद्यानि पेयानि च
भोत्तुंफ तत्र मिलेन्न वा सुमधुराण्यागत्य को वा वदेत् ?
मिष्टान्नानि समोदकानि सरसान्यत्रैव भुक्तानि किं
दैवज्ञ ! त्वमुदीरयात्र भवता भोगा न भुक्ताः किमु ? ।। ९ ।।
हे दैवज्ञ ! भवानिहाऽपरजनैर्दृष्टः स्मितास्यो मुहुः
कौशेयं परिधानमस्ति मसृणं दृष्ट्या सुचारु प्रियम् ।
पीनत्वादपि ते शरीरनिचयो ज्ञाता गतिर्दूरतः
किं स्वर्गे परिचीयते वदतु तद्वेशः शरीरं कथम् ? ।। १० ।।
का भाषा त्रिदशालये कथयतां तां बोधयामो न वा
का वा संस्कृति–सभ्यता गदतु तां जानीमहे किं न वा ।
अस्माभिः सुरभाषया विलिखितं पत्रं ध्रुवं स्मर्यते
अस्मत्संस्कृति–सभ्यता दिवि भवेदाशास्महे निश्चयम् ।। ११ ।।
वदनस्मितकोकिलस्वरोऽप्यनुभूतं तव चारुदर्शनम् ।
कविताकथने विशेषतो मधुवाक् तत्र कथं वितिष्ठसे ।। १२ ।।
वपुषःस्थितिरस्ति कीदृशी मधुरं तेऽस्ति वचो न वा वद ।
हसितं वदनं भवेन्न वा वद सर्वां त्रिदशालयस्थितिम् ।। १३ ।।
इह ते कवितासु माधुरीरसभावा गुणरीतिवृ ।
पठने श्रवणे समीक्षणे ह्यनुभूताः सकलैर्विशेषतः ।। १४ ।।
वद किं त्रिदशालयेऽपि ते रचनायां कवितासु माधुरीम् ।
कथयन्ति समीक्षकाः किमु पदलालित्यविधावलङ्कृतौ ।। १५ ।।
कवयः सुरलोकवासिनो नयपालादपि पूर्वमागताः ।
नवका भरतादयोऽपि ते कवितायां प्रवदन्ति कीदृशम् ।। १६ ।।
कवितारचनापटुर्मम जनको दार्शनिको महाकविः ।
इह पुत्रकलत्रबान्धवान् प्रविहायाऽऽगतवान् दिवं पुरा ।। १७ ।।
दिवि शक्रसभासु पश्यतु कविमञ्चेषु विराजते ध्रुवम् ।
क्रमशः कविमण्डलाग्रतः कवितां श्रावयति शृणोतु ताम् ।। १८ ।।
अधिकं न मया निवेद्यते भवतः संस्मरणं विधीयते ।
स्वयमेव विशेषविद् भवान् सशुभाऽऽशीर्वचनं वितीर्यते ।। १९ ।।
शुभनाम कृतिश्च कर्म ते भुवि यावत् प्रथते शुभं यशः ।
भवतात् तव तावदेव हि सुरलोके वसतिः सुरैः समम् ।। २० ।।
विबुधा दिवि शीलिनः सदा प्रथयन्तेऽपि च शीलिनं जनम् ।
त्रिदिवे तव यावदेव हि समयः शीलयुतस्त्वमप्यभूः ।। २१ ।।
उपकारपरो गुणी भव हितवन्तं हितकारको भव ।
सुखदुःखसमः सदा भव परमापत्सु न दुःखितो भव ।। २२ ।।
श्रुतवृत्तयुतः सदा भव न तु लोभेऽतिविमोहितो भव ।
परमर्मवचांसि ब्रूहि नो मितवाक् कोकिलकूजितो भव ।। २३ ।।
त्वमितो गतवान् दिवं प्रति कथये त्वां सुलभः सुधारसः ।
अमरैरपि नैव लभ्यते भुवि तत्रंफ सुलभं सुधासमम् ।। २४ ।।
परिवारजनाः सुधादयो भवतः संस्मरणं प्रकुर्वते ।
अधुना तव विप्रयोगतो मधुरं भोज्यमपीह जह्यते ।। २५ ।।
इह पुत्रकलत्रबान्धवाः कुशलाः सन्ति समे निवेदये ।
कुशलं भवतोऽभिकामये ललितं पत्रमितोऽपि लिख्यताम् ।। २६ ।।
कथनीयमतीव विद्यते त्वयि सर्वं लिखितुं न शक्यते ।
यदि ते भुवि चागमो भवेत् परिचेतुं न मयाऽत्र शक्यते ।। २७ ।।
सुरलोकगतेऽपि भुज्यते कृतकर्माणि शुभानि सन्ति चेत् ।
यदि तेषु समापितेषु तु नरलोकागमनं विनिश्चितम् ।। २८ ।।
अत एव मया तु साम्प्रतं स्वमनोभाव इहैव लिख्यते ।
भवता कृतपुण्यसञ्चयो ह्युपभोगात् क्षयमेति चेत्तदा ।। २९ ।।
पुनरन्यजनावितस्ततो न हि गच्छेरधिकं किमुच्यते ।
कविताकथनार्थमेव हि हिमवद्देशमिमं न विस्मर ।। ३० ।।
तव संस्मरणाय शक्यते लिखितुं यद्यपि मातृभाषया ।
किमु संस्कृतपद्यबन्धनादिति चेत्तच्छृणुतां न दर्पतः ।। ३१ ।।
स्मरणादपि नामकीर्तनात् पठनात् पत्रविशेषलेखनात् ।
अनुकूलयितुं स्वभारतीं विहितोऽभ्यास इहापि ते स्मृतौ ।। ३२ ।।
ननु पत्रमिदं कुतः कथं समुपायादपि लेखकोऽस्ति कः ?
इति चेत्तव मानसेऽधुना तव संस्मर्तुमिह प्रबन्धनम् ।। ३३ ।।
ननु पत्रिकया किमर्थ्यते खलु चिन्ता न विधीयतां त्वया ।
दुरितापचयो भवेन्न वा सुकृतस्योपचयो भवेन्न किम् ? ।। ३४ ।।
तव धर्मपथानुवर्तिनं तव विद्यार्थिजनप्रबोधकम् ।
स्मर कान्तपदानुवर्तिनं खलु लक्ष्मीपदमादिसंज्ञकम् ।। ३५ ।।
त्रुटितं क्वचिदस्ति चेन्मम क्षमतामित्यपि नार्थये यतः ।
अपराधवतोऽपि बालकान् गृहयन्ते हि शुभाशया जनाः ।। ३६ ।।
श्रावयामि तव गोत्रसंभवान् तान् कलत्रसुतवर्गभूषणान् ।
शोचनं न कुरुताऽत्र देहवान् बीजवृक्षफलबीजरूपमैत् ।। ३७ ।।
गच्छतीति जगदित्यतः पुनर् लोक्यते य इति लोकशब्दितः ।
सम्यगेष सरतीति सैव हि संसृतिर्बुधजनैर्निगद्यते ।। ३८ ।।
मासपक्षदिनरात्रिभेदतः काल एष पुनरेति गच्छति ।
शैशवाद्युवकभावमागतो वृद्धतां समुपयाति बालकः ।। ३९ ।।
शोचनीयमिह संसृतौ किमु ? सैष दृष्टिपथमैति गच्छति ।
जीर्णवस्त्रमिव देहवानितः पुत्रपौत्रतनुभावमागतः ।। ४० ।।
लिलिखिषति भवाँश्चेत् पत्रमेकं ममापि
चरणकथनसंख्या प्रोच्यते श्रूयतां ताम् ।
स्मरशरवसुरामाष्टौचतुर्भूर्नवाब्धिर्
वसुनवमितसङ्ख्या वामतो योजनीया ।। ४१ ।।
प्राध्यापयन् सम्प्रति मञ्जुगर्ते
चरन्न जानात्यपि शास्त्रमर्थम्
सतां बुधानां गुणगायकोऽयम्
लक्ष्म्यादिकान्तो जन एष आस्ते ।।४२।।
२०६९ जेष्ठ २२, ज्येष्ठपूर्णिमा